|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.85. अध्यायः 085
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-85-0x(5044)(59228)
तमायान्तं महावेगैरश्वैः कपिवरध्वजम्।
युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः॥ 8-85-1(59229)
कृत्वा संशप्तका घोरं शपथं पारलौकिकम्।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम्॥ 8-85-2(59230)
कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान्।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति॥ 8-85-3(59231)
प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम्।
बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः॥ 8-85-4(59232)
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान्।
जघान नवतिं वीरानर्जुनो निशितैः शरैः॥ 8-85-5(59233)
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना।
विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा॥ 8-85-6(59234)
ततः सरथनागाश्वाः कुरवः कुरुसत्तमम्।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम्॥ 8-85-7(59235)
तदायस्तमनुष्याश्वमुदीर्णवरवारणम्।
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम्॥ 8-85-8(59236)
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम्॥ 8-85-9(59237)
तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः॥ 8-85-10(59238)
ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः।
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात्॥ 8-85-11(59239)
कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः।
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन्॥ 8-85-12(59240)
तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः॥ 8-85-13(59241)
अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः।
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत्॥ 8-85-14(59242)
ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः।
हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः॥ 8-85-15(59243)
ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम्॥ 8-85-16(59244)
कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश॥ 8-85-17(59245)
रथा हीना नहाराज रथिभिर्वाजिभिस्तथा।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः॥ 8-85-18(59246)
अश्वारोहा महाराज धावमाना इतस्ततः।
तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः॥ 8-85-19(59247)
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि॥ 8-85-20(59248)
असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति।
नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः॥ 8-85-21(59249)
ततस्त्र्येङ्गेण महता बलेन भरतर्षभ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम्॥ 8-85-22(59250)
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान्।
जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति॥ 8-85-23(59251)
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम्।
दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति॥ 8-85-24(59252)
हतावशिष्टांस्तुरगानर्जुनेन महाबलः।
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे॥ 8-85-25(59253)
`गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः।
मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्'॥ 8-85-26(59254)
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम्।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम्॥ 8-85-27(59255)
गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत्।
सा जघान बहूनश्वानश्वारोहांश्च मारिष॥ 8-85-28(59256)
कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः।
पोथयामास गदया सशब्दं तेऽपतन्हताः॥ 8-85-29(59257)
दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः।
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः॥ 8-85-30(59258)
असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा।
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा॥ 8-85-31(59259)
सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः।
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः॥ 8-85-32(59260)
गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः।
मेनिरे समनुप्राप्तं कालदण़्डोद्यतं यमम्॥ 8-85-33(59261)
स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः।
प्रविवेश गजानीकं मकरः सागरं यथा॥ 8-85-34(59262)
विगाह्य च गजानीकं प्रगृह्य महतीं गदाम्।
क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम्॥ 8-85-35(59263)
गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः।
पततः समपश्याम सपक्षान्पर्वतानिव॥ 8-85-36(59264)
हत्वा तु तद्गजानीकं भीमसेनो महाबलः।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात्॥ 8-85-37(59265)
ततः पराङ्मुखीभूतं निरुत्साहं बलं तव।
तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम्॥ 8-85-38(59266)
विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम्।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः॥ 8-85-39(59267)
नराश्वरथमातङ्गा युधि गाण्डीवधन्वना।
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः॥ 8-85-40(59268)
ततः कुरुणामभवदार्तनादो महान्नृप।
नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः॥ 8-85-41(59269)
हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम्।
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम्॥ 8-85-42(59270)
ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम्।
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः॥ 8-85-43(59271)
आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम्।
आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते॥ 8-85-44(59272)
तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः।
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम्॥ 8-85-45(59273)
तत्राद्भुतमपश्याम कौरवाणां पराक्रमम्।
वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ॥ 8-85-46(59274)
तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते॥ 8-85-47(59275)
अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना॥ 8-85-48(59276)
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम्॥ 8-85-49(59277)
तान्विद्रावयते पार्थः किरञ्शरशतान्बहून्।
हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम्॥ 8-85-50(59278)
पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा॥ 8-85-51(59279)
कुरवो हि महाराज निर्विषाः पन्नगा इव।
कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः॥ 8-85-52(59280)
यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष।
उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम्॥ 8-85-53(59281)
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप।
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः॥ 8-85-54(59282)
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान्।
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः॥ 8-85-55(59283)
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम्।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया॥ 8-85-56(59284)
तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः।
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन्॥ 8-85-57(59285)
विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः॥ 8-85-58(59286)
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः।
शरौघैश्छादयामासुर्महामेघा इवाचलम्॥ 8-85-59(59287)
ततः शरसहस्राणि कर्णमुक्तानि मारिष।
पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः॥ 8-85-60(59288)
महदासीत्तदा युद्धं पाञ्चालानां महामते।
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना॥ ॥ 8-85-61(59289)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशीतितमोऽध्यायः॥ 85 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-85-12 मुसलैर्भिन्दिपालैश्च इति झ.पाठः॥ 8-85-85 पञ्चाशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|